search
Q: अधोलिखितं गद्यांश पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चित्वा लिखत - कदाचित् कश्चन राजा वैराग्यं प्राप्य संन्यासी जात:। भिक्षाटनसमये काचित् माता तस्मै भिक्षारूपेण त्रीन् तण्डुलकणान् दत्तवती। तदा स: संन्यासी आश्चर्येण अपृच्छत् - ‘‘आर्ये! एतै: त्रिभि: तण्डुलकणै: पाक: कर्तुं न शक्य:। अत: स्पष्टं यत् एते विशिष्टोद्देशेन दत्ता: इति। ते उद्देशा: के ?’’ इति। तदा माता अवदत् - ‘‘भवान् पूर्वं राजा आसीत् इति भवत: मुखदर्शनात् एव ज्ञायते। त्रीन् अंशान् ज्ञापयितुं मया त्रय: तण्डुलकणा: दत्ता:’’ इति। ‘‘ते त्रय: अंशा: के?’’ - संन्यासी अपृच्छत् । ‘‘पूर्वं प्रासादे यथा तथैव भवता सर्वदा सुरक्षिततया स्वातव्यम् इति प्रथम: अंश:। प्रासादे इव प्रतिदिनं भवता रुचिपूर्णभोजनं करणीयम् इति अंश: द्वितीय:। प्रासादे इव अन्यत्र अपि भवान् सुखनिद्रां प्राप्नुयात् इत्ययं तृतीय: अंश:। ...’’ ‘‘अहम् इदानीं प्रासादे नास्मि खलु? अत: एते अंशा: जीवने कथं पालयितुं शक्या: मया?’’ - राजा अपृच्छत् । ‘‘कामक्रोधलोभमोहादय: शत्रव: यदि भवता दूरे स्थाप्येरन् तर्हि भवत: सुरक्षितता सिद्धा। प्रतिदिनं परिश्रम:, योगाभ्यास इत्यादय: नियततया कृता: चेत् महती बुभुक्षा बाधते। तदा शुष्का रोटिका अपि परमस्वादुतया भासते। अत: प्रतिदिनं सम्यक् बुभुक्षा यथा प्राप्येत तथा परिश्रम: करणीय:। यदा शरीरश्रम: अधिक: भवेत् तदा एव सुखनिद्रा प्राप्येत। अत: शरीरश्रम: भवत: अधिक: भवेत् सर्वदा।...’’ ‘‘अम्ब! उत्तमा नीति: उत्कृष्टेन क्रमेण ज्ञापिता: भवत्या’’ इति उक्त्वा तां कृतज्ञतापूर्वकं नमस्कृत्य तत: अग्रे गतवान् संन्यासी। क: सन्यासी जात: ?
  • A. राजा
  • B. भृत्य:
  • C. छात्र:
  • D. सचिव:
Correct Answer: Option A - राजा सन्यासी जात:। राजा सन्यासी हो गया। कदाचित् कश्चन राजा वैराग्यं प्राप्य सन्यासी जात:। भृत्य: = सेवक, नौकर छात्र: = विद्यार्थी सचिव: मन्त्री
A. राजा सन्यासी जात:। राजा सन्यासी हो गया। कदाचित् कश्चन राजा वैराग्यं प्राप्य सन्यासी जात:। भृत्य: = सेवक, नौकर छात्र: = विद्यार्थी सचिव: मन्त्री

Explanations:

राजा सन्यासी जात:। राजा सन्यासी हो गया। कदाचित् कश्चन राजा वैराग्यं प्राप्य सन्यासी जात:। भृत्य: = सेवक, नौकर छात्र: = विद्यार्थी सचिव: मन्त्री