search
Q: निर्देश: : अधोलिखितं गद्यांशं पठित्वा तदाधारित-प्रश्नानां विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चित्वा लिखत। गंगातीरे एक: विशाल: वटवृक्ष: आसीत्। तस्य शाखासु बहव: खगा: स्नेहेन निवसन्ति स्म। एकदा प्रात:काले एक: व्याध: तत्रागच्छत्। स: वृक्षस्य अध: जालं प्रसारयत्। जालस्य उपरि तण्डुलान् विकीर्य स: एकस्मिन् स्थाने अतिष्ठत्। तत: चित्रग्रीव: नामक: कपोतराज: सपरिवारं तत्रागच्छत्। तण्डुलकणान् दृष्ट्वा स: अकथयत्-अत्र निर्जने वने तण्डुलप्राप्ति: कथम् सम्भवा? अत्र विपत्ति: सन्निकटा दृश्यते। अत: शीघ्रम् उत्पतत्। किन्तु तस्य सहचरा तु बुभुक्षिता: आसन्। अत: तस्य वचनानि उपेक्ष्य ते अवदन्-अधुना भोजनस्य अभाव: अस्ति। अत्र शोभना: तण्डुला: दृश्यन्ते। अपि च कोऽपि न अस्ति अत्र। आगच्छत, खादाम:। कपोतराज: पुनरपि तान् सचेतान् कर्तुम् अकथयत्-सहसा क्रियां न विदधीत्। अत: सम्यक् विचार्य एव कार्यं कर्तव्यम्। तण्डुललोभात् सर्वे कपोता: शीघ्रमेव तण्डुलान् भक्षयितुं नीचै: आगच्छन् यदा एव ते तण्डुलकणान् खादितुम् आरभन्त तदा एव ते सर्वे जाले बद्धा: अभवन्। ते जालात् बहि: आगन्तुम् बहु प्रायतन्त किन्तु सफला: न अभवन्। चित्रग्रीव: व्याधं दृष्ट्वा तान् अवदत् - अधुना यूयं सर्वे मिलित्वा व्याधं दृष्ट्वा तान् अवदत्-अधुना यूयं सर्वे मिलित्वा जालम् आदाय शीघ्रम् उत्पतत्। ते तथैव अकुर्वन्। व्याध: तान् अन्वधावत् किन्तु शीघ्रमेव ते अगोचरा: अभवन्। निराश: व्याध: स्वगृहम् आगच्छत् । वनस्य एकस्मिन् स्थाने हिरण्यक: नाम मूषक: अवसत्। स: कपोतराजस्य मित्रम् आसीत्। सर्वे कपोता: जालम् आदाय तस्य समीपम् अगच्छन्। तेषां प्रार्थनाम् आकरण्य स: जालम् अकृन्तत्। एवं कपोता: पुन: स्वतन्त्रा: अभवन्। परस्परं सहयोगेन एव ते स्वतन्त्रा: सफला: च अभवन् । सत्यमेव कथ्यते-समवायो हि दुर्जय:। भक्षयितुं इत्यस्मिन् पदे क: प्रत्यय: अस्ति?
  • A. क्त
  • B. क्तिन्
  • C. तुमुन्
  • D. ल्युट्
Correct Answer: Option C - भक्षयितुं इत्यस्मिन् पदे तुमुन् प्रत्यय: अस्ति। अर्थात् भक्षयितुं में तुमुन् प्रत्यय है। तुमुन् प्रत्यय ‘के लिए’ अर्थ में होता है। तुमुन् का ‘तुम्’ शेष रहता है। तुमुन् प्रत्यान्त शब्द अव्यय होता है अत: इसका रूप नहीं चलता है। उदा०-ईक्षितुम्, कर्तुम्, पठितुम्, चलितुम्, भक्षितुम् इत्यादि।
C. भक्षयितुं इत्यस्मिन् पदे तुमुन् प्रत्यय: अस्ति। अर्थात् भक्षयितुं में तुमुन् प्रत्यय है। तुमुन् प्रत्यय ‘के लिए’ अर्थ में होता है। तुमुन् का ‘तुम्’ शेष रहता है। तुमुन् प्रत्यान्त शब्द अव्यय होता है अत: इसका रूप नहीं चलता है। उदा०-ईक्षितुम्, कर्तुम्, पठितुम्, चलितुम्, भक्षितुम् इत्यादि।

Explanations:

भक्षयितुं इत्यस्मिन् पदे तुमुन् प्रत्यय: अस्ति। अर्थात् भक्षयितुं में तुमुन् प्रत्यय है। तुमुन् प्रत्यय ‘के लिए’ अर्थ में होता है। तुमुन् का ‘तुम्’ शेष रहता है। तुमुन् प्रत्यान्त शब्द अव्यय होता है अत: इसका रूप नहीं चलता है। उदा०-ईक्षितुम्, कर्तुम्, पठितुम्, चलितुम्, भक्षितुम् इत्यादि।