search
Next arrow-right
Q: निर्देश : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्य: समीचीनमुत्तरं चिनुत। वेदा: समस्तानां सत्यविद्यानां ग्रन्था: सन्ति। वेदेषु या या विद्या: सन्ति ता: सर्वा: सार्वभौमिका:, सार्वजनिका:, सार्वदेशिका:, सार्वकालिकाश्च सन्ति। वेदेषु सूत्ररूपेण अखिलस्यापि ज्ञानविज्ञानस्य उल्लेखो वर्तते। भारतीयज्ञानपरम्परानुसारेण सर्गादौ परमकारुणिकेनेश्वरेण सर्वोपकारार्थं ऋग्वेद-यजुर्वेद-सामवेद-अथर्ववेदानां च ज्ञानं क्रमश: अग्नि-वायु-आदित्य-अङ्गिराय च दत्तम् । अत: चत्वारो वेदा अपौरुषेया: सन्ति। वेदानामध्ययनमध्यापनञ्च श्रवणपरम्परया एव सुदीर्घकालपर्यन्तं प्रचलितमासीत् अत: वेदानामपरसंज्ञा श्रुतिरपि अस्ति। चतुर्णां वेदानां चत्वारा उपवेदा: सन्ति। ऋग्वेदस्य उपवेदोऽस्ति आयुर्वेद:। यजुर्वेदस्य उपवेदोऽस्ति धनुर्वेद:। सामवेदस्य उपवेदोऽस्ति गन्धर्ववेद:। अथर्ववेदस्य उपवेदोऽस्ति अर्थवेद:। उपवेदा: ऋषिभि: प्रणीता:। वेदानां रहस्यमुद्धातनाय ऋषिभि: षड्वेदाङ्गानि रचितानि। तानि सन्ति शिक्षा-कल्प-व्याकरण-निरुक्त-छन्द-ज्योतिषश्च। शिक्षाग्रन्थानामुद्देश्यमस्ति वर्णानां ज्ञानम् । सम्प्रति पाणिनीयशिक्षा, याज्ञवल्क्यशिक्षा, वर्णोच्चारणशिक्षा इत्यादय: कतिपयो ग्रन्था एवोपलभ्यन्ते। पाणिनीयशिक्षा इति नाम्ना यो ग्रन्थोऽस्ति सोऽपि अपाणिनीयो वर्तते। यतो हि तस्मिन् ग्रन्थे उल्लेखोऽस्ति ‘‘अथ शिक्षां प्रवक्ष्यामिपाणिनीयं मतं यथा’’ वर्णोच्चारणशिक्षा नाम्ना यो ग्रन्थ: प्रकाशितस्तस्य अन्वेषणं महर्षिणा दयानन्देन कृतमासीत् । महर्षिदयानन्दानुसारमेष ग्रन्थ एव पाणिनीय शिक्षाग्रन्थोऽस्ति। एष ग्रन्थ: सूत्रशैल्यामेव लिखितोऽस्ति। कल्पवेदाङ्गं श्रौतसूत्र-गृह्यसूत्र-धर्मसूत्र-शुल्बसूत्ररूपेण चतुर्धा विभक्तमस्ति। कल्पवेदाङ्गे मुख्यरूपेण यज्ञानां, संस्काराणां, कत्र्तव्यकर्मणां, यज्ञवेदिनिर्माणविधेश्च उल्लेखोऽस्ति। व्याकरणवेदाङ्गस्य मुख्यमुद्देश्यं वेदानां रक्षा अस्ति। महर्षिणा पतञ्जलिना महाभाष्ये व्याकरणवेदाङ्गस्य प्रयोजनानि - इत्थं लिखितानि - ‘‘रक्षोहागमलघ्वसन्देहा प्रयोजनम्’’ ‘‘रक्षार्थं वेदानामध्येयं व्याकरणम्’’ इति। यद्यपि बहवो वैय्याकरणा बभूवु: परन्तु अष्टाध्याप्रणेता पाणिनिरेव मूर्धाभिषिक्त:। अष्टाध्यायीमधिकृत्य कात्यायनेन महर्षिणा पतञ्जलिना च क्रमेण वार्तिकसूत्राणि महाभाष्यञ्च रचितम् । पाणिनि: कात्यायन:, पतञ्जलिश्च, एते त्रयो वैय्याकरणा:’’ ‘‘त्रिमुनि’’ इत्यपरनाम्ना अपि प्रसिद्धा:। व्याकरणस्य दार्शनिको ग्रन्थो वाक्यपदीयमिति नाम्ना भर्तृहरिणा लिखितम् । भट्टोजिदीक्षितेन सिद्धान्त कौमुदी लिखिता। निरुक्तवेदाङ्गस्य प्रणेताऽस्ति यास्क:। अस्योद्देश्यमस्ति वैदिकपदानां निर्वचनम् । अत एव निरुत्तेâ प्रतिपादितमस्ति न त्वेव न निब्रूयात् अर्थात् समेषा वैदिकपदानां निर्वचनं कत्र्तव्यमेव। छन्दोवेदाङ्गस्य विषयोऽस्ति वैदिकमन्त्राणां छन्दसां ज्ञानम् । वेदेषु गायत्री-उष्णिक्-बृहती-पङ्कति-त्रिष्टुप् - जगती एतानि सप्त छन्दांसि समुपलभ्यन्ते। ज्योतिषवेदाङ्गस्य समबन्धोऽस्ति गणितशास्त्रेण। अस्य प्रमुखो वक्ता अस्ति लगध:। सम्प्रति फलितज्योतिषशास्त्रस्यप्रचार भूयान् वर्तते। वेदमन्त्राणां प्राचीनतमा व्याख्या ब्राह्मणग्रन्थेषूपलभ्यते ‘ब्रह्म’ इत्यस्य पदस्य अनेकेऽर्था: सन्ति। तेष्वेकोऽर्थोऽस्ति वेदमन्त्र:। अत एव वेदमन्त्राणां व्याख्यानभूता ग्रन्था: ब्राह्मणग्रन्था: सन्ति। ऋग्वेदस्य द्वौ ब्राह्मणग्रन्थौ स्त: - ऐतरेय:, कौषीतकि: यजुर्वेदस्य शतपथब्राह्मणम् , सामवेदस्य अनेके ब्राह्मणग्रन्था: समुपलभ्यन्ते। अथर्ववेदस्य गोपथब्राह्मणम्। अनन्तरम् आरण्यकग्रन्था रचिता:। आरण्यकग्रन्थानामनन्तरम् आध्यात्मिकचिन्तनसमन्विताग्रन्था उपनिषद् इति नाम्ना रचिता:। सर्गादौ भगवता परमेश्वरेण सामवेदस्य ज्ञानं कस्मै दत्तम्?
  • A. अङ्गिराय
  • B. कृष्णाय
  • C. आदित्याय
  • D. अग्नेय
Correct Answer: Option C - सर्गादौ भगवता परमेश्वरेण सामवेदस्य ज्ञानं आदित्याय दत्तम् अर्थात् सर्ग के आदि में अर्थात् सृष्टि के आदि में भगवान परमेश्वर के द्वारा सामवेद का ज्ञान आदित्य को दिया। अग्नि वायु रविभ्यस्तु त्रयं ब्रह्म सनातनम् । दुदोह यज्ञ सिद्धयर्थं ऋग्यजु: साम लक्षणम्। उस परमात्मा में जगत् में समस्त धर्म, अर्थ, काम, मोक्ष आदि व्यवहारों की सिद्धि के लिए अर्थात् जगत के समस्त रूपों के ज्ञान के लिए अग्नि, वायु, रवि से क्रमश: ऋग् - ज्ञान, यजु:- कर्म, साम उपासना रूप ज्ञान वाले नित्य वेदों को दुहकर प्रकट किया तथा अथर्ववेद का ज्ञान अंगिरा को दिया। वेद – देवत ऋग्वेद –अग्नि यजुर्ववेद –वायु साम – रवि (आदित्य) अथर्ववेद – अंगिरा
C. सर्गादौ भगवता परमेश्वरेण सामवेदस्य ज्ञानं आदित्याय दत्तम् अर्थात् सर्ग के आदि में अर्थात् सृष्टि के आदि में भगवान परमेश्वर के द्वारा सामवेद का ज्ञान आदित्य को दिया। अग्नि वायु रविभ्यस्तु त्रयं ब्रह्म सनातनम् । दुदोह यज्ञ सिद्धयर्थं ऋग्यजु: साम लक्षणम्। उस परमात्मा में जगत् में समस्त धर्म, अर्थ, काम, मोक्ष आदि व्यवहारों की सिद्धि के लिए अर्थात् जगत के समस्त रूपों के ज्ञान के लिए अग्नि, वायु, रवि से क्रमश: ऋग् - ज्ञान, यजु:- कर्म, साम उपासना रूप ज्ञान वाले नित्य वेदों को दुहकर प्रकट किया तथा अथर्ववेद का ज्ञान अंगिरा को दिया। वेद – देवत ऋग्वेद –अग्नि यजुर्ववेद –वायु साम – रवि (आदित्य) अथर्ववेद – अंगिरा

Explanations:

सर्गादौ भगवता परमेश्वरेण सामवेदस्य ज्ञानं आदित्याय दत्तम् अर्थात् सर्ग के आदि में अर्थात् सृष्टि के आदि में भगवान परमेश्वर के द्वारा सामवेद का ज्ञान आदित्य को दिया। अग्नि वायु रविभ्यस्तु त्रयं ब्रह्म सनातनम् । दुदोह यज्ञ सिद्धयर्थं ऋग्यजु: साम लक्षणम्। उस परमात्मा में जगत् में समस्त धर्म, अर्थ, काम, मोक्ष आदि व्यवहारों की सिद्धि के लिए अर्थात् जगत के समस्त रूपों के ज्ञान के लिए अग्नि, वायु, रवि से क्रमश: ऋग् - ज्ञान, यजु:- कर्म, साम उपासना रूप ज्ञान वाले नित्य वेदों को दुहकर प्रकट किया तथा अथर्ववेद का ज्ञान अंगिरा को दिया। वेद – देवत ऋग्वेद –अग्नि यजुर्ववेद –वायु साम – रवि (आदित्य) अथर्ववेद – अंगिरा