search
Q: निर्देश:- अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चित्वा लिखत । एकस्मिन् वने चत्वार: वृषभा: निवसन्ति स्म। ते चत्वार: सर्वदा सम्मिल्य भ्रमणं खादनं च कुर्वन्ति स्म । सुखदु:खयो: अपि ते कदापि एकाकी विचरणं न कुर्वन्ति स्म । अस्मात् कारणात् अन्ये पशव: तेषु आक्रमणं कर्तुं समर्था: न भूता: । यतो हि ते मिलित्वा तं पशुं परास्तं कृत्वा धावयन्ति स्म । अत: सम्पूर्णे वने तासां प्रभाव: आसीत् अनेन कारणेन सिंह: व्याघ्र: इत्यादय: औदासीन्यं प्रकटयन्ति स्म यतो हि ते तासां पुष्टं मांसं खादितुं समर्था: न आसन् । वने ये चाटुकारा: शृगाला: लोमशा: आसन् ते अपि लालायिता: परन्तु किञ्चित् अपि कर्तुं समर्था: न आसन् । भीकू : नाम्न: एक: लोमश: बहुदिनात् लालायित: । लोमश: अवशिष्टं मांसं बहुदिनपर्यन्तं अति औत्सुक्येन खादितवान् । स: समये समये सिंहं उद्दीपयितुं प्रयासं करोति स्म। परन्तु तेषां चतुर्णाम् वृषभानां समक्षे सिंह अपि सामर्थ्यहीन: आसीत्। अत: सिंह अपि साहस: न कृतवान् । एकदा भीकू : लोमश: स्वबुद्धिचातुर्येण अथक् प्रयासं कृत्वा तेषु वृषभेषु मध्ये मतभेदं स्थापितवान् । इदानीं ते वृषभा: परस्परं विरोधिन: अभवन् । अत: पृथक् पृथक् भूत्वा एकाकिन: चरन्ति भ्रमन्ति स्म । परन्तु लोमश: स्वयमेव एकस्मिन् अपि वृषभे आक्रमणं कर्तुं समर्थ: न आसीत् । अत: स: सिंहं सूचयति यत् चत्वार: वृषभा: इदानीं परस्परं वैरिण: अभवन् । ते एकाकी एव भ्रमन्ति चरन्ति विचरन्ति स्म । इमं अवसरं प्राप्त्वा सिंह: एकं एकं कृत्वा चतुर: बलवान् वृषभान् मारयित्वा तेषां पुष्टस्वादिष्ट मांसस्य आस्वादनं कृतवान् । लोमश: अपि अवशिष्ठस्य मांसस्य भक्षणं कृत्वा प्रसन्न: अभूत्। अस्तु कथया शिक्ष्यते यत् संगठने शक्ति: भवति। वृषभा: सम्मिल्य किं न कुर्वन्ति स्म?
  • A. भ्रमन्ति
  • B. गायन्ति
  • C. खादन्ति
  • D. विचरन्ति
Correct Answer: Option B - वृषभा: सम्मिल्य ‘गायन्ति’ न कुर्वन्ति स्म। अर्थात् चारों बैल मिलकर गायनकार्य नहीं करते थे परन्तु भ्रमण, विचरण और भोजन परस्पर मिलकर एक साथ करते थे।
B. वृषभा: सम्मिल्य ‘गायन्ति’ न कुर्वन्ति स्म। अर्थात् चारों बैल मिलकर गायनकार्य नहीं करते थे परन्तु भ्रमण, विचरण और भोजन परस्पर मिलकर एक साथ करते थे।

Explanations:

वृषभा: सम्मिल्य ‘गायन्ति’ न कुर्वन्ति स्म। अर्थात् चारों बैल मिलकर गायनकार्य नहीं करते थे परन्तु भ्रमण, विचरण और भोजन परस्पर मिलकर एक साथ करते थे।