search
Next arrow-right
Q: निर्देश.: अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चित्वा लिखत। पूर्वं दक्षिणप्रदेशे एक: त्यागराज: नाम विद्वान् आसीत्। तस्य पुत्री ज्ञानाम्बा अतीव बुद्विमती आसीत्। तस्या: बुद्धिमत्वकारणात् एव तस्यै वर: दुर्लभ: आसीत्। कश्चिदपि ज्ञानेन तस्या: समतां न अकरोत्। एकदा तस्या: पित्रा त्यागराजेन पार्श्वस्थग्रामस्य कश्चित् - पण्डितपुत्र: वररूपेण अन्विष्ट: ज्ञानाम्बां च तस्य विषये असूचयत् । परन्तु ज्ञानाम्बा उक्तवती यत् अहं स्वयमेव तं द्रक्ष्यामि, प्रश्नं च प्रक्ष्यामि । ज्ञानाम्बाया: वाक्यं श्रुत्वा त्यागराज: चिन्तितोऽभवत् । तदा एकस्मिन् दिवसे स: वरस्य ग्रामं गत्वा तस्य पितरं ज्ञानाम्बाया: विचारम् अकथयत्। तस्य पिता ज्ञानाम्बाया: बुद्धिमत्त्वम् अजानत् । यद्यपि स: स्वपुत्रस्य ज्ञानविषये आश्वस्तो न आसीत्। तथापि तेन ज्ञानाम्बाया: साक्षात्कारार्थम् स्वीकृति: प्रदत्ता । अथ निश्चिते दिने स: पण्डित: स्वपुत्रेण सह त्यागराजकवे: गृहम् आगत:। प्रणामानन्तरम् ज्ञानाम्बा स्वपितरम् अवदत् यत् उभौ एव भवन्तौ पृथक् कक्षे तिष्ठताम् । अहम् अत्र एव द्वित्रान् सरलप्रश्नान् प्रक्ष्यामि । ज्ञानाम्बाकथनानुसारं त्यागराज: वरपितरं गृहीत्वा अन्यस्मिन् कक्षे अगच्छत् । ज्ञानाम्बा तं युवकं तस्य नाम अपृच्छत्। स: च ‘बोधराज:’ इति स्वनाम अवदत्। तदा ज्ञानाम्बा अपृच्छत्-अयि भो: व्याकरणं तु जानासि। तेन उक्तम् – आम् जानामि। मम अयम् प्रश्न: ‘एक: बालक: विहस्य मातरं पृच्छति – अम्ब, माम् विहाय कुत्र गच्छसि’ इति, कृपया ‘विहस्य विहाय’ इति पदयो: व्याकरणपरिचय: दीयताम्। पण्डितसूनु: अवदत् – स्पष्टमेव अत्र क्रमश: पष्ठी च चतुर्थी च विभक्ति: दृश्यते। ज्ञानाम्बया उक्तम् बाढम्, तर्हि ‘अहं कथम्’ इति पदयो: तु द्वितीया-विभक्ति: भवेत्? युवक: अवदत् –सत्यमुक्तम् त्वया ‘एवमेवास्ति। ज्ञानाम्बया कथितम् – क्षणं तिष्ठतु भवान्, अहं किञ्चित् भोजनमानयामि। युवकोऽवदत् – नैव नैव, पित्रा सह गन्तव्यमस्ति। अस्मिनन्तरे त्यागराज: बोधराजपित्रा सह आगत: । तदा त्यागराजेन पृष्टम् जाते! तव प्रश्नानामुत्तराणि कथं दत्तानि? ज्ञानाम्बा स्मयमाना आसीत्। त्यागराज: कथितवान् –सम्यग् उत्तराणि दत्तानि, इति मन्ये। तदा ज्ञानाम्बा इमं श्लोकमवदत् – ‘‘यस्य षष्ठी चतुर्थी च, विहस्य विहाय च। अहं कथं द्वितीया स्यात्, द्वितीया स्याम् अहं कथम् ।। एतच्छ्रुत्वा त्यागराज: निराश: अभवत्। हस्तयो: शिर: गृहीत्वा निम्नमुख: उपाविशत्। स: चिन्तित: आसीत् – किं कर्तव्यं कोऽपि ज्ञानवान् युवक: न दृश्यते ? वस्तुत: विदुष्य: युवतय: समानं वरमिच्छन्ति। अत एव केनचित् कविना उक्तम् – ‘‘व्युत्पन्नमतयो बाला: तुल्यं वाञ्छन्ति बल्लभम्। त्यागराजकवे: पुत्री ज्ञानाम्बा धीमती यथा।।’’ युवकस्य पिता ज्ञानाम्बाया: किम् अजानत्?
  • A. बुद्धिमत्त्वम्
  • B. सौन्दर्यम्
  • C. पाककलाम्
  • D. चातुर्यम्
Correct Answer: Option A - युवकस्य पिता ज्ञानाम्बाया: बुद्धिमत्वम् अजानत् । अर्थात् युवक का पिता ज्ञानाम्बा को बुद्धिमती माना। उसके बुद्धित्व के कारण ही उसके लिए वर दुर्लभ था। वररूप में स्वीकृत बोधराज से ज्ञानाम्बा द्वारा उसके नाम और व्याकरण के विषय में पूछा गया।
A. युवकस्य पिता ज्ञानाम्बाया: बुद्धिमत्वम् अजानत् । अर्थात् युवक का पिता ज्ञानाम्बा को बुद्धिमती माना। उसके बुद्धित्व के कारण ही उसके लिए वर दुर्लभ था। वररूप में स्वीकृत बोधराज से ज्ञानाम्बा द्वारा उसके नाम और व्याकरण के विषय में पूछा गया।

Explanations:

युवकस्य पिता ज्ञानाम्बाया: बुद्धिमत्वम् अजानत् । अर्थात् युवक का पिता ज्ञानाम्बा को बुद्धिमती माना। उसके बुद्धित्व के कारण ही उसके लिए वर दुर्लभ था। वररूप में स्वीकृत बोधराज से ज्ञानाम्बा द्वारा उसके नाम और व्याकरण के विषय में पूछा गया।