search
Q: निर्देश: :अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्माकोत्तरेषु उचिततमम् उत्तरं चिनुत । सहसा न विदधीतक्रियाम् अविवेकपरमापदां पदं भवति । य: विचार्यकार्यं न करोति स मूढस्तथा तप्यते यथा विद्वान् नकुलं व्यापाद्य तप्यते । स आह कथमेतत् ? दूरदर्शी कथयति अस्ति देहल्याम् देवसिंहो नाम विद्वान् परं धनाभावात् विपन्न: । तस्य पत्नी प्रसूतबालापत्यस्य रक्षार्थं विद्वांसमवस्थाप्य स्न्नातुं गता । अथ विदुषे राज्ञ: पार्वणश्राद्धं दातुमाह्वानमागतम् । तच्छ्रुत्वा विद्वान् सहजदारिद्यादचिन्तयत् – ‘यदि सत्वरं न गच्छामि तदाऽन्य: कश्विच्छ्रुत्वा श्राद्धं ग्रहीष्यति । यत:, – आदानस्य तथा च कर्त्तव्यस्य कर्मण: क्षिप्रमक्रियमाणस्य तस्य रसं काल: पिबति । किन्तु बालकस्यात्र रक्षको नास्ति, तत्किम करोमि ? यातु, चिरकालपालितमिमं नकुलं पुत्रनिर्विशेषं बालकरक्षायां व्यवस्थाप्य गच्छामि ।’ तथा कृत्वा गत: । ततस्तेन नकुलेन बालकसमीपमागच्छन् कृष्णसर्पो दृष्ट्वा व्यापाद्य कोपात्खण्डं खण्डं कृत्वा खादित: । ततोऽसौ नकुलो विद्वांसमायान्तमवलोक्य रक्तविलिप्तमुखपाद: सत्वरमुपागम्य तच्चरणयोर्लुलोठ । तत: स तथाविधं तं दृष्ट्वा ‘बालकोऽनेन खादित:’ इत्यवधार्य नकुलं व्यापादितवान् । अनन्तरं यावदुपसृत्यापत्यं पश्यति स तावद्वालक: सुस्थ; सर्पश्व व्यापादितस्तिष्ठति । ततस्तमुपकारकं नकुलं निरीक्ष्य भावितचेता: स परं विषादमगमत् । को तप्यते दु:खेन ?
  • A. य: गुरूनवहेलयति
  • B. य: अधार्मिको भवति
  • C. यो न करोति अध्ययनम्
  • D. यो विचार्य कार्यं न करोति
Correct Answer: Option D - गद्यानुसारं ‘‘यो विचार्य कार्यं न करोति’’ स: दु:खेन तप्यते। अर्थात् गद्य के अनुसार ‘‘जो विचार कर काम नहीं करता’’ वह दु:ख में तपता है। अर्थात् पश्चाताप करता है। ‘‘सहसा विदधीत न क्रियाम् अविवेक: परमापदां पदम्’’ ‘‘किरातार्जुनीयम्’’
D. गद्यानुसारं ‘‘यो विचार्य कार्यं न करोति’’ स: दु:खेन तप्यते। अर्थात् गद्य के अनुसार ‘‘जो विचार कर काम नहीं करता’’ वह दु:ख में तपता है। अर्थात् पश्चाताप करता है। ‘‘सहसा विदधीत न क्रियाम् अविवेक: परमापदां पदम्’’ ‘‘किरातार्जुनीयम्’’

Explanations:

गद्यानुसारं ‘‘यो विचार्य कार्यं न करोति’’ स: दु:खेन तप्यते। अर्थात् गद्य के अनुसार ‘‘जो विचार कर काम नहीं करता’’ वह दु:ख में तपता है। अर्थात् पश्चाताप करता है। ‘‘सहसा विदधीत न क्रियाम् अविवेक: परमापदां पदम्’’ ‘‘किरातार्जुनीयम्’’